मधुराविजयमहाकाव्यस्य चारित्रिकप्रामुख्यम्

षण्मुखविरचितम्

मधुराविजयमथवा वीरकम्परायचरितं नाम महाकाव्यं कम्परायनाम्नः विजयनगरसाम्राराज्यराजकुमारस्य महिषी गङ्गादेवी व्यरचयत्। तत् महाकाव्यं कम्परायस्य दक्षिणदिग्विजयस्य (अद्य तमिळुनाडु प्रान्तस्य) वृत्तान्तं विस्तररूपेण वर्णयति। तस्य राजकुमारस्य जननं, गङ्गादेव्या सह विवाहं, पितुः पुत्रस्य दक्षिणविजयाकांक्षा, तस्य चम्परायेण, मधुरानगर्याः तुलुष्कराजेण सह युद्धं तथा संंपूर्णजयं काव्यरीत्या सुन्दरवर्णनानि पाठकेभ्यः अर्पयति।

एतत् महाकाव्यं संपूर्णदशायां न प्राप्तम्। अष्टतोऽधिकास्सर्गाः तस्यामासन्। द्वितीयात् षष्टसर्गपर्यन्तं महाकाव्यं संपूर्णं लब्धम्। प्रथमषष्टसप्तमाष्टमसर्गाः अपूर्णरीत्या लब्धाः। अष्टमसर्गस्य परं केचित् श्लोकाः एव सम्मिलिताः। तान् श्रीहरिहरशास्त्रिमहोदयः संग्रह्य पुस्तकरुपेण प्राकटयत्।

एतस्याः कृतेः चारित्रिकप्रमुखतायाः कारणबहुल्यं संदृश्यते। प्रथमं तु काव्यमेतत् चारित्रिकदृष्ट्या उत्प्रेक्षितम्। तथापि कम्परायस्य समकालीनया प्रत्यक्षसाक्ष्या लिखितम्। गङ्गादेवी स्वभर्तुः दिग्विजययात्रायां कनिष्ठपक्षं कस्मिन्श्चित् कालेऽपि अनुप्रायात्। अतः सा स्वानुभवात् स्ववीक्षितान् च विषयान् लिलेख।

गङ्गादेवी अनेकचारित्रिकभौगोलिकनिर्देशान् प्रसञ्चष्टे। प्रथमसर्गे विजयनगरं तुङ्गभद्रानदीपरिखापरितंचक्राचलप्राकारितं रिपुजनदुरवापदुर्गमिति अनुगामिनयोः श्लोकयोः शश्लाघे यथा

सुरलोकान्तसंक्रान्तस्वर्णदीमत्सरादिव।

परिखाकारतां यान्त्या परीता तुङ्गभद्रया॥ (1:44)

लक्ष्मीलतालवालेन क्ष्मावधूनाभिशोभिना।

चक्राचलप्रकारेण प्राकारेण परिष्कृता॥ (1:45)

विजयनगरसाम्राज्यचक्रवर्तिनः बुक्कमहारायस्य पराक्रममौदार्यं प्रशंस्य च तस्य अग्रमहिष्याः देवाय्याः परस्परानुरागं शिवपार्वत्योः समवायत्वाय तुतोल। अस्मिन् काव्ये एव बुक्कवसुमतीपतेः अग्रमहिष्याः नामधेयं देेवायीति कथितं नान्यत्र।

द्वितीयसर्गे राजकुमारस्य कम्परायस्य गुणरूपयोः वर्णनं समर्पयति, तस्य बालक्रीडाः वर्णयति, तथा तस्य भ्रात्रोः नामन्यपि कथयति। द्वितीयेसर्गे कवयत्री बुक्कमहारायस्य ताम्रपर्णीपर्यन्तं विजयनगरसाम्राज्यविस्तरणाकाङ्क्षाम् तथा कम्परायस्य तदाशानिर्वहणाभिलाषाम् अस्मिन् श्लोके सुसूच।

सा तुङ्गभद्रां सविधे वहन्तीं सुभ्रूरनादृत्य सुखावगाहाम्।

विहर्तुमैच्छन्निजसैन्यनागैस्तरङ्गिते वारिणि ताम्रपर्ण्याः॥ (2:5)

गङ्गादेवी तस्मिन्नेव सर्गे पुण्यलग्ने कम्परायस्य जननं च शिशुलक्षणान्यपि निर्दिदेश। कम्परायस्य भ्रात्रावपि `कम्पनसङ्गमाख्यौइति गङ्गादेवी आमनति। तद्वृत्तान्तं मधुराविजये एव लभ्यते। अन्यानि चारित्रिकमूलानि तन्निर्देशं न सूचयन्ति।

तृतीयस्सर्गे कम्परायः गुरुणा राज्ञा चोपदिष्ठः। राजा कम्परायमुद्दिश्य भूरिपौरुषपराक्रमं शंसयित्वा तम् द्राविडतुलुष्कराज्यान् जेतुमुत्तेजयति

उपेत्य तुण्डीरमखण्डितोद्यमः प्रमथ्य चम्पप्रसुखान् रणोन्मुखान्।

प्रशाधिकाञ्चीमनुवर्तितः प्रजाः पतिर्निधीनामलकापुरीमिव॥ (3:41)

अथाभिभूताखिलवन्यभूभृतस्तुरुष्कभङ्गस्तव नैव दुष्करः।

निगीर्णशाखाशतसंवृतः कथं तरुप्रकाण्डं न दहेद्दवानलः॥ (3:42)

कम्परायः तानुपदेशान् अङ्गीकृतवान्। चतुर्थे सर्गे कम्परायस्य सैन्यं वर्णयति तस्य सेनासमेतप्रगमनं च। अनीकिनीसहितकम्परायः कर्णाटं पञ्चदिनेषु उत्तार्य निस्सिद्धं चम्परायं पालार् नद्याः तीरे न्यरुरोधेति चरित्रातज्ञाः शङ्कन्ति यतः

अथ लङ्घितकर्णाटः पञ्चषैरेव वासरैः।

प्रापन्कम्पमहीपालः कण्टकानजपट्टणम्॥ (4: 47)

अथ सन्नद्धसैन्यस्तं न्यरुन्ध द्रमिडाधिपम्।

घनीकृतहिमानीको हेमन्त इव भास्करम् ॥ (4:51)

इति गङ्गादेव्याः अभिप्रायः।

कम्परायः शत्रुं पराजित्य पलायन्तं चम्परायं राजगम्भीरदुर्गे आक्रमत्।

अथ प्रववृते युद्धं सैन्ययोरुभयोरपि।

पतदुत्पतदस्त्रांशुज्वलितोर्वीनभस्थलम्॥ (4:70)

तस्मिन् युद्धे उपयुङ्क्तान्यायुधानि सैन्यविन्यासान् न्यरोधनयन्तत्राणि अश्मक्षेपणयन्त्राणि व्यवृणोत्। कश्चिद्कालपर्यन्तं गोपयितुमसमर्थः चम्परायः दुर्गात् बहिरागत्य कम्परायस्य साकं युयोध। तस्मिन् अवरोधने चम्परायः कम्परायं युद्धे व्यरुरोध तथा मृतश्च यथा गङ्गादेवी कथयति।

निर्जगामनिजाहाराच्चम्पक्ष्मापोऽपि कोपनः।

कृपाणपाणिवल्मीकाज्जिह्वाल इव जिह्मगः॥ (4:77)

पञ्चमस्सर्गे मरतकनगरे कम्परायस्य राजत्वं केरलद्रमिलगौलसिंहलसेमनराजानां शरणागतिं विवृणोति।

अथ स तत्र महीतलमण्डने मरतकाह्वयभाजि महापुरे।

विरचितस्थितिरप्रतिशासनं जगदशेषमरक्षदनाकुलम्॥ (5:1)

तथा मरतके कम्परायस्य राज्यभारं तस्य भोगानपि वर्णयति। अद्य मरतकनगरं विरिञ्चीपुरसमीपे वर्तते ईति इतिहासज्ञाः शङ्केयुः। षष्ठसप्तमसर्गयोः ऋतूनाम् शीतांशोदयस्य तथा कम्परायस्य विहारक्रीडावर्णनानि निबद्धानि।

अष्टमसर्गे कम्परायं अपरिचिता नारी काचित् अनुब्रवीति। सा मधुरानगर्याः व्यथां, तुलुष्कानाम् अत्यचारान् तस्मै निवेदयति। `तेषाम् अकार्यकारणात् व्याघ्रपुरी (अद्य चिदम्बरंनगरी) व्याघ्राणामेव पुरी भविता, तथा श्रीरङ्गक्षेत्रस्य एकैकरक्षा केवलं आदिशेशः एवइति अनुवर्तिनश्लोके दुदूय।

अधिरङ्गमवाप्त योगनिद्रं हरिमुद्वेजयतीति जातभीतिः।

पतितं मुहुरिष्टकानिकायं फणचक्रेण निवारयत्यहीन्द्रः॥ (8)1

यस्मिन् अग्रहारेषु द्विजयज्ञानां समिद्धूमो अविद्यत, तत्राद्य विस्रमांसगन्धः व्यराजयतीति सा व्यललाप।

सतताध्वरधूमसौरभैः प्राङ्निगमोद्घोषणवद्भिरग्रहारैः।

अधुनाजनि विस्रमांसगन्धैरधिकक्षीबतुलुष्कसिंहनादैः॥(8)

रक्तचन्दनात् शोणीकृतताम्रपर्णीनद्यां गवानां रुधिरप्रवाहः तुलुष्काकार्यात् वहतीति सा वेदनां ददर्श।

स्तनचन्दनपाण्डु ताम्रपर्ण्या्स्तरुणीनामभवत् पुरा यदम्भः।

तदसृग्भिरुपैति शोणिमानं निहतानामभितो गवां नृशंसैः॥ (8)

तथा पान्ड्यराजानां महामहिमखड्गं कम्पराजाय समर्प्य, तं राजकुमारमाशीर्वद्यापसर्पति। अष्टमसर्गपर्यन्तं लब्धश्लोकेषु कम्परायतुलुष्कराजयोः युद्धं विश्रावयति तथा कम्परायस्य विजयं, तुलुष्कराजक्षयं पाठकैः निवेदयति। तुलष्कराज्यनाशात् दक्षिणभारते शान्तिसमृद्धिविकासाः स्थापिताः।

प्रशान्तदावेव वनान्तलक्ष्मीर्गतोपरागा गगनस्थलीव।

कलिन्दजा मर्दितकालियेव दिग् दक्षिणासीत् क्षतपारसीका॥

एवं गङ्गादेवी तत्कालीनेतिहासस्य सुन्दरं निष्कृष्टञ्च चित्रणं काव्यद्वारा अस्माकं पुरतः स्थापितवती इति प्रमोदस्थानीयोऽयं विषयः। काव्यं एतावन्मात्रं लब्धमिति दूयामहे।

1अस्मिन् सर्गे सर्वाणि श्लोकानि न लब्धानि। अतः सर्गेऽस्मिन् श्लोकसंख्या न वर्तते।